मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५३६ लेखाः सन्ति।
सांख्यदर्शनम् प्राचीनतमं दर्शनमस्ति। अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः। वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति। यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति। कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान्। शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम्। (अधिकवाचनाय »)

महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते। महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।(अधिकवाचनाय »)
अष्टादश पुराणानि -
- म-द्वयं भ-द्वयं चैव ब्र-त्रयं व-चतुष्टयम् ।
- अ-ना-प-लि-ङ्ग-कू-स्कानि पुराणानि प्रचक्षते ॥
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
सज्जनानां स्वभावं वर्णयति कविः। सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति। तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति। अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति। किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ? |