मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५५६ लेखाः सन्ति।
ऐतरेयोपनिषत् ऋग्वेदस्य ऐतरेयारण्यके अन्तर्गता विद्यते। अस्याम् उपनिषदि त्रयः अध्यायाः विद्यन्ते। प्रथमे अध्याये त्रयः खण्डाः। द्वितीये तृतीये च अध्याये एकैकः खण्डः विद्यते। आत्मनः वर्णनम् आत्मना कृता सृष्टिः च अस्याः उपनिषदः विषयाः। आदौ विश्वे आत्मामात्रम् आसीत्, नान्यत् किमपि इत्येतेन तत्त्वज्ञानपूर्णेन वाक्येन एव अस्याः उपनिषदः आरम्भः भवति। अन्यासु उपनिषत्सु इन्द्रियगोचरवस्तूनाम् उत्पत्तिः कथं जातम् इति निरूप्य अन्ते आत्मनः निरूपणं भवति। किन्तु अस्याम् उपनिषदि आत्मसाक्षात्कारं प्राप्तवद्भिः ऋषिभिः आदौ आत्मतत्त्वं निरूप्यते। आत्मना इदं विश्वं कथम् उत्पन्नम् इति निरूप्यते। विश्वस्य उत्पत्तेः मूलकारणानि विविधासु उपनिषत्सु बहुधा निरूपितं वर्तते। तेषां सर्वेषां निरूपणानां समन्वयं कृत्वा अस्याम् उपनिषदि निरूपितं यत् परमात्मनः सङ्कल्पशक्त्या विविधसृष्टिः जाता इति। (अधिकवाचनाय »)

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम्। दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः। एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम्। ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन्। परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति। एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो। (अधिकवाचनाय »)
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
लोके सर्वैः सज्जनानां सहवासं प्राप्तुं यत्नः करणीयः। तेषां सम्पर्केण अस्माकम् अनेके उपकाराः भवन्ति। सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनुः इव अस्माकं सर्वाः इच्छाः पूरयति। अनिष्टात् अस्मान् दूरीकरोति। अतः एव पण्डिताः सज्जनानां वाचं कामधेनुं वदन्ति। |