मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,५५६ लेखाः सन्ति।

माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते माण्डूक्योपनिषत् (Mandukyopanishat)। इयम् उपनिषत् अथर्ववेदे अन्तर्भवति। अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते। क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः। अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते। माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति। ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते। तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते। अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः। आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः। (अधिकवाचनाय »)

ध्यानचन्द इत्यस्य मूख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत्। तस्य गतिः अश्व इव आसीत्। तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म। सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत्। तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत्। यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत। सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत्। (अधिकवाचनाय »)
सप्त स्वराः के ?
|
|
अयं च श्लोक: -
- निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
- पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥
- उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना
22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।
* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्
21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।
* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्
20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते। किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते। स्वभावस्य परिवर्तनं तथा सुकरं न। यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति। |