सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

Image

माण्डूक्योपनिषत् प्रमुखासु दशसु उपनिषत्सु अन्यतमा वर्तते माण्डूक्योपनिषत् (Mandukyopanishat)। इयम् उपनिषत् अथर्ववेदे अन्तर्भवति। अस्याम् उपनिषदि १२ मन्त्राः विद्यन्ते। क्षराक्षरवस्तुनिर्देशरूपस्य ओङ्कारस्य व्याख्यानमेव अत्र प्रमुखः उद्देशः। अतः तस्य उपव्याख्यानम् तन्नाम ओङ्कारस्य उपव्याख्यानम् इति आरम्भवाक्ये एव निर्दिष्टं वर्तते। माण्डूक्योपनिषदि आत्मा, तस्य चतस्रः अवस्थाः, आत्मनिर्देशः ओङ्कारः इत्येते विषयाः प्रस्तुताः सन्ति। ग्रन्थविषयाः महत्त्वपूर्णाः, व्यापकाः, कठिनाश्च वर्तन्ते। तथापि अत्रत्या प्रतिपादनशैली सरला सुलभा च वर्तते। अस्याम् आत्मा ब्रह्म इत्येतौ शब्दौ आत्यन्तिकसत्यमित्यर्थे निर्दिष्टौ स्तः। आत्यन्तिकसत्यस्य संक्षिप्तपरिचयं कारयित्वा तस्य सत्यस्य निर्देशमन्त्रस्य ओङ्कारस्य उपदेशं कृतवन्तः सन्ति उपनिषत्काराः। (अधिकवाचनाय »)



Image आधुनिकलेखः

हॉकी-क्रीडायाः मुख्यकेन्द्रम्
हॉकी-क्रीडायाः मुख्यकेन्द्रम्

ध्यानचन्द इत्यस्य मूख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत्। तस्य गतिः अश्व इव आसीत्। तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म। सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत्। तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत्। यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत। सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत्। (अधिकवाचनाय »)




Image ज्ञायते किं भवता?

सप्त स्वराः के ?

  • षड्जः
  • ऋषभः
  • गान्धारः
  • मध्यमः
  • पञ्चमः
  • धैवतः
  • निषादः

अयं च श्लोक: -

निषादर्षभ-गान्धार-षड्ज-मध्यम-धैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥



Image वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
  • कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
  • हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
  • वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।

Image अद्यतनं सुभाषितम्

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते। किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते। स्वभावस्य परिवर्तनं तथा सुकरं न। यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति।


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्