सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Image शास्त्रीयलेखाः

Image
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् शुक्लयजुर्वेदीया उपनिषत्। उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते। शुक्लयजुर्वेदस्य संहितोपनिषदियम्। अष्टादशमन्त्रात्मिका विद्यते। इयम् उपनिषत् ज्ञानभक्तिकर्ममार्गाणां समन्वयम् उपदिशति। अत्रत्यः तत्त्वोपदेशः सर्वाङ्गपरिपूर्णः विद्यते। पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते। अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः। इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति। (अधिकवाचनाय)



Image आधुनिकलेखः

सोमनाथस्य मन्दिरम् वेरावळ
सोमनाथस्य मन्दिरम् वेरावळ

सोमनाथमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते। समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति। सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते। सोमेश्वरः इत्यप्यस्य नामान्तरम्। चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान्। अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति। अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम्। पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव। अत्रैव चन्द्रः तपः कृतवानासीत्। एतल्लिङ्गं चन्द्र एव अस्थापयत्। (अधिकवाचनाय »)




Image ज्ञायते किं भवता?

कति ऋणानि सन्ति ? तानि कानि ?

त्रीणि ऋणानि सन्ति ।
  1. देवऋणम्
  2. ऋषि-ऋणम्
  3. पितृ-ऋणम्



Image वार्ताः

नरेन्द्र मोदी
नरेन्द्र मोदी
  • प्रधानमन्त्री नरेन्द्र मोदी भारतस्य दीर्घतमकार्यकालं यावत् सेवारतः शासनाध्यक्षः अभवत्।
  • गुजरातविधानसभया यूसीसी-विधेयकं पारितम्, अनेन सह इदं राज्यम् एतादृशं द्वितीयं राज्यम् अभवत्।
  • भारते निष्क्रिय-इच्छामृत्योः अनुमतिं प्राप्तवान् प्रथमः जनः हरीशराणा-महोदयः 13 वर्षाणाम् अनन्तरम् एम्स-रुग्णालये दिवङ्गतः।
  • पश्चिम-एशिया-विवादस्य मध्ये ऊर्जासुरक्षाम् उद्दिश्य प्रधानमन्त्रिणा लोकसभायां भाषणं कृतम्।

Image अद्यतनं सुभाषितम्

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्।

सुखार्थी वा त्यजेद् विद्यां विद्यार्थी वा त्यजेत् सुखम् ॥

उद्योगपर्व - ४०/६

बहु जनाः सुखेन जीवितुम् इच्छन्ति। परिश्रमं कर्तुं न इच्छन्ति। एतादृशाः विद्यां सम्पादयितुं न अर्हन्ति। सुखार्थी विद्यां प्राप्तुं न अर्हति। यतः विद्यायाः सम्पादनं परिश्रमं, निरन्तरं प्रयत्नञ्च अपेक्षते। विद्यां प्राप्तुं यः इच्छति सः सुखं त्यजेदेव।


Image सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्